
अथ षष्ठसर्गः
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥१॥
तया व्याह्रतसन्देशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभ्याशे मघौ परभृतोन्मुखी ॥२॥
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्ज्योतिर्मयान्मयान्सप्त सस्मार स्मरशासनः ॥३॥
ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥४॥
आप्लुतास्तीरमन्दारकुसुमोत्करवीचिषु । व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥५॥
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥६॥
अधः प्रस्थापिताश्वेन समावर्जितकेतुना । सहस्ररश्मिना साक्षात्सप्रणाममुदीक्षिताः ॥७॥
आसक्तबाहुलतया सार्धमुद्धृतया भुवा । महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥८॥
सर्गशेषप्रणयनाद् विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥९॥
प्रक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तमसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥१०॥
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा । साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥११॥
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्रीपुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥१२॥
तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्माणां सत्पत्न्यो मूलकारणम् ॥१३॥
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति । पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः ॥१४॥
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् । इदमूचुरनुचानाः प्रीतिकण्टकितत्वतः ॥१५॥
यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् । यच्च तप्तं तपस्तस्य विपक्वं फ़लमद्य नः ॥१६॥
यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याविषयं मनोविषयमात्मनः ॥१७॥
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः । किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥१८॥
सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव ॥१९॥
त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥२०॥
या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसम्भवा । सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥२१॥
साक्षाद् दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा । प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् । अथ विश्वस्य संहर्ता भागः कतम एष ते ॥२३॥
अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु । चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥२४॥
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः । उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः ॥२५॥
विदितां वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽसि सूचितः ॥२६॥
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतैर्देवैः प्रसूतिं प्रतियाचितः ॥२७॥
अथ आहर्तुमिच्छामि पार्वतीमात्मजन्मने । उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥२८॥
तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः । विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥२९॥
उन्नतेन स्थितिमता धुरमुद्वहता भुवः । तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम् ॥३०॥
एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते । भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥३१॥
आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति । प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥३२॥
तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् । महाकोशीप्रपातेऽस्मिन्सङ्गमः पुनरेव नः ॥३३॥
तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे । जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥३४॥
ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि सम्प्राप्तः प्रथमोद्दिष्टमास्पदम् ॥३५॥
ते चाकाशमसिश्याममुत्पत्य परमर्षयः । आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥३६॥
अलकामतिवाह्येव वसतिं वसुसम्पदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥३७॥
गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ज्वलितौषधि । बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥३८॥
जितसिंहभया नागा यत्राश्वा बिलयोनयः । यक्षाः किम्पुरुषाः पौरा योषितो वनदेवताः ॥३९॥
शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् । अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ॥४०॥
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥४१॥
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥४२॥
यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥४३॥
यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् । रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः॥४४॥
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥४५॥
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् ॥४६॥
अथ ते मुनयः दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥४७॥
ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ॥४८॥
गगनादवतीर्णा सा यथावृद्धपुरःसरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥४९॥
तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन् सारगुरुभिः पादान्यासैर्वसुन्धराम् ॥५०॥
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥५२॥
तत्र वेत्रासनासीनान् कृतासनपरिग्रहः । इत्युवाचेश्वरान् वाचं प्राञ्जलिर्भूधरेश्वरः ॥५३॥
अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥५४॥
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥५५॥
अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥५६॥
अवैमि पूतमात्मानं द्वेनैव द्विजोत्तमाः । मूर्ध्निं गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥५७॥
जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ५८॥
भवत्सम्भावनोत्थाय परितोषाय मुर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥५९॥
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसोऽपि परं तपः ॥६०॥
कर्तव्यं वो न पश्यामि स्याच्चोत्किं नोपपद्यते । मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥६१॥
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥६२॥
एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥६३॥
इत्यूचिवांस्तमेवार्थं गुहामुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥६४॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ॥६५॥
उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥६६॥
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥६८॥
अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥६९॥
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेन द्वितीयेन तथैवोच्छिरसा त्वया ॥७०॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तव ॥७१॥
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्यमयं शृङ्गं सुमेरोर्व्रितथीकृतम् ॥७२॥
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु ते भक्तिनम्रं सतामाराधनं वपुः ॥७३॥
तदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥७४॥
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥७५॥
कलितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मभिः । येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥७६॥
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥७७॥
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् । वृणुते वरदः शम्भुरस्मत्सङ्क्रामितैः पदैः ॥७८॥
तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥७९॥
यावन्त्येतानि भूतानि स्थावराणि चराणि च । मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ॥८०॥
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥८१॥
उमा वधूर्भावान्दाता याचितार इमे वयम् । वरः शम्भुरलं ह्येष त्वोत्कुलोद्भूतये विधिः ॥८२॥
अस्तोतुः स्तूयमानस्य वन्द्यास्यानन्यबन्दिनः । सुतासम्बन्धविधिना भव विश्वगुरोर्गुरुः ॥८३॥
एवंवादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥८४॥
शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥८५॥
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् । भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥८६॥
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः । आददे वचसामन्ते मङ्गलालंकृतां सुताम् ॥८७॥
एहि विश्वात्मने वत्से ! भिक्षोऽसि परिकल्पिता । अर्थिनो मुनयः प्राप्तं गृहमेधिफ़लं मया ॥८८॥
एतावदुक्त्वा तनयामृषीनाह महीधरः । इयं नमति वः सर्वांस्त्रीलोचनवधूरिति ॥८९॥
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामासुः पुरः पाकाभिरम्बिकाम् ॥९०॥
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् । अङ्कमारोपयामास लज्जमानामरुन्धती ॥९१॥
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥९२॥
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना । ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः ॥९३॥
ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥९४॥
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः। कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ९५॥
More suggestions required to develop this blog...!
ReplyDelete